Sanskrit essay on Akshay Trithya

अक्षयतृतीया

वैशाखमासे बहूनि पर्वाणि सन्ति । यथा विषुवतीपर्व, माधवप्रारम्भोत्सवः, अमाव्रतं, त्रेतायुगोत्पत्तिः, चन्द्रदर्शनव्रतं, परशुरामजयन्ती, श्रीशङ्कराचार्यजयन्ती, श्रीरामानुजाचार्यतिरुनक्षत्रं, गङ्गासप्तमी, मोहिनीव्रतं, नृसिंहजयन्ती, कूर्मजयन्ती, पूर्णिमाव्रतं, वैशाखस्नानव्रतम्, अक्षयतृतीया इत्यादीनि । तेषु अक्षयतृतीया अत्यन्तं प्रामुख्यं भजते । वैशाखमासस्य शुक्लपक्षस्य तृतीयायां तिथौ एतत् पर्व आचर्यते । अक्षयतृतीयादिनं सर्वेषाम् अपि कार्यक्रमाणाम् अत्यन्तं प्रशस्तं दिनम् । भविष्यपुराणे श्रीकृष्णः एव अस्य दिनस्य असाधारणं महत्त्वं वर्णितवान् अस्ति ।

“बहुनात्र किमुक्तेन किं बह्वक्षरमालया ।

वैशाखस्य सितामेकां तृतीयामक्षयां श्रुणु ॥“ इति ।

एतत् दिनं कृष्णपूजार्थं, गङ्गास्नानार्थं च अत्यन्तं सुदिनम् इति उच्यते । दशावतारेषु षष्ठावतारस्य “ब्रह्म-क्षत्रावतार”स्य परशुरामस्य जयन्ती अपि एतस्मिन् दिने एव । न केवलं देवतानां पूजार्थम् अपि तु पितृपूजार्थमपि एतद्दिनं प्रशस्तम् इति उच्यते । अस्मिन् दिने कृतं स्नानं, दानं, जपः, तपः, तर्पणम्, अध्ययनं सर्वमपि अक्षयं फलं ददाति इति । ’अक्षयमोक्षस्य कारणम्’ इति कारणात् अपि एतद्दिनम् अक्षयतृतीया इति उच्यते । अक्षयतृतीयाव्रतकर्तारः प्रातःकाले सङ्कल्पपूर्वकं गङ्गास्नानं कुर्वन्ति । तदभावे स्नानजले एव गङ्गायाः आवाहनं कृत्वा स्नान्ति । प्रतिदिनम् अस्माभिः क्रियमाणं स्नानमपि अत्यन्तं फलप्रदम् इति वदति अयं श्लोकः –

“दीपनं वृष्यमायुष्यं स्नानमूर्जाबलप्रदम् ।

कण्डूमलश्रमस्वेदतन्द्रातृड्दाहपाप्मजित् ॥“

(स्नानं जठराग्निम् उद्दीपयति, शुक्रवृद्धिं करोति, आयुर्हितं साधयति, उत्साहं बलं च वर्धयति, मालिन्यं, कण्डूतिं, श्रान्तिं, स्वेदं, निद्रां, तन्द्रां, पिपासां, पापं च परिहरति ।) गङ्गास्नानं तु परं पुण्यदम् । तत्रापि अक्षयतृतीयायां कृतं गङ्गास्नानं सर्वकिल्बिषैः मोचयति ।

“वैशाखे शुक्लपक्षे तु तृतीयायां तथैव च ।

गङ्गातोये नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥“ इत्ययं श्लोकः तमेव अंशं वदति ।

तद्दिने स्नात्वा शुचिर्भूत्वा पितृकर्माचरणेन सह इष्टदेवतयाः तथा च विशेषतया लक्ष्मीनरायणयोः श्रीकृष्णस्य वा पूजां कुर्वन्ति ।

“वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम् ।

नारायणं पूजयेच्च पुष्पधूपविलेपनैः ॥“ इति उक्तम् अस्ति ।

श्रीकृष्णस्य पूजावसरे चन्दनलेपनं श्रेयस्करम् इत्यपि वदति अयं श्लोकः ।

“यः करोति तृतीयायां कृष्णं चन्दनलेपितम् ।

वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम् ॥“ इति ।

पितृतर्पण-पिण्डप्रदनानन्तरं सत्पात्रेभ्यः गोधूमस्य, यवस्य, चणकस्य, नानाविधानां रसान्नानां, विशेषतया दध्यन्नस्य, पूर्णकुम्भस्य, ग्रीष्मोपयोगीनाम् इतरेषां वस्तूनां वा दानं करणीयम् । तद्दिने एकभुक्तिम् अपि आचरन्ति । अत्र चन्दनलेपनस्य वा यवादीनां दानस्य वा औचित्यम् अपि अस्ति । अक्षयतृतीया वसन्तऋतौ ग्रीष्मकाले भवति । तदा जायमानानां शारीरकसमस्यानां परिहारः चन्दनेन यवेन च प्राप्यते । यथा –

“चन्दनं शीतलं रूक्षं तिक्तमाह्लादनं लघु ।

श्रमदोषविषश्लेष्मतृष्णापित्तास्रदाहनुत् ॥“

(चन्दनं शीतलं, रूक्षं, तिक्तम् आह्लदकरं, लघु च । एतत् श्रान्तिं, रूक्षत्वं, विषं, श्लेष्मं, पिपासां, रक्तपित्तं, ज्वलनं च श्मयति ।)