हरिनामामृतव्याकरणम्

कृष्णमुपासितुमस्य स्रजमिव नामावलिं तनवै॥
त्वरितं वितरेदेषा तत्साहित्यादिजामोदम्॥१॥

श्रीश्रीकृष्णचैतन्यचन्द्राय नमः

“तत्त्वप्रदर्शिका टीका” —

अर्द्धं तैकस्वरूपञ्च नित्यानन्दात्मधामकम् । नासामि तत्परं तत्त्वं कृष्णं चैतन्यविग्रहम्॥ नमामि । चरणाम्भोजं श्रीमद्गुरुदेवजीवपादानाम्॥ । यत्कृपाविभवैरयं नियुक्तो वराकोऽप्यमृतविभजने॥ स्वल्पायुषां कलियुगेऽत्र नृणां शमिच्छन् । शादानुशासन – महाजलधि विमथ्य॥

नामामृतं समददत् य इदं कृपालुः । स | श्रीलजीवचरणः शरणं ममास्तु॥ अथ कलियुगप्पावतस्य स्वयंभगवतः श्रीमत्कृष्णचैतन्यमहाप्रभोः प्रियपरिकरो, निखिल-शास्त्रोदधि-परिमर्थनोत्थ-भक्तिपीयूष-परिवेशको, विबुधवृन्द-वन्दित-पदारविन्दद्वन्द्वो, विश्ववैष्णवराजराजिवरेण्यो, भागवतपरमहंसाग्रगण्यः समाश्रितवृन्द्ारण्यस्तत्रभवान् श्रीलजीवगोस्वामिचरणो, भजनैकनिष्ठुतयाऽनधीत – व्याकरणानां प्रागधीतान्य व्याकरणानाश्च वैष्णवानां हितकाम्यया नामसंकेतेन व्युत्पत्तिवाञ्छयाच्च, स्वगुरु-श्रीमद्रूपगोस्वामिपाद-रचित-लघु-सूत्र-विस्तार-पारिपाठ्येन श्रीहरिनामामृताख्यं शब्दानुशासनमारभमाणः प्रारिप्सित-ग्रन्थ-निर्विघ्न-परिसमाप्त्यर्थ’शिष्टशिष्यवर्गशिक्षायै वस्तुनिर्देशात्मकमङ्गलमादौ निबध्नाति “कृष्ण’मिति । अनेन सर्व एव ग्रन्थोऽयं मङ्गलमयः इत्येव ज्ञापयति । कृष्णं स्वयम्भगवन्तम् । “कृष्णस्तु भगूवान् स्वयम्’ इति श्रीमद्भागवतपरिभाषावचनप्रामाण्यात् । “यजन्ति त्वन्मयास्त्वां वै बहुमूत्र्येकमूत्तिकम्’इत्यक्रूिरोक्त्या भगवत्स्वरूपाणां सर्वेषां तदन्तः पातित्वाच्च । आकर्षति निखिलचराचरान् स्वमाधुर्यमहिम्ना

`स्वरूपानन्देन वेति ‘कृष्णः’ । कृषेर्वर्णे,नक्, उणादेर्बाहुल्यात् संज्ञायाश्च । “कृषिर्भूवाचकः

शब्दो णश्च निवृतिवाचवः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ इति महाभारतम् ।

२ श्रीश्रीहरिनामामृतव्याकरणम्

‘भूवाचक’ इत्यत्र भावे विषु । भावोधात्वर्थ:, सचात्राक्षणं; नक् प्रत्ययश्व कर्तरि, तेनाकर्षण पूर्वकानन्ददायि-नराकृति-परब्रह्म कृष्णशब्दार्थः । श्यामलतमालत्विषि यशोदास्तनन्धये रूढि रिति नामकौमुदी । तमुपासितुमाराधयितुमित्यर्थः । अस्य श्रीकृष्णस्य तत्

संबंधिन इति यावत् । नाम्नामावलि श्रेणी स्रज पुष्पमाल्यमिव तनवै रचयानि। ‘इच्छार्थ

धातुसत्व’ इत्यनेन प्रार्थनायां विधातृलकारः। ‘कृपयासीत् स्वबन्धने’ इति श्रीमद्भागवतसिद्धान्तेन भगवतः कृपा शक्तिमन्तरेण यथा दाम्ना तस्मैं बन्धनमसम्भवं तथा तन्नाम्नामपि । नामिनाम्निर्भेद्ध्रतः श्रीभगवत्कृपां प्रार्थयत इति हृदयम् । “ न कुर्यान्निष्फूलं कर्म्” इत्यतः फलमाह-एषेति । एषा मया तन्यमाना ग्रन्थनिबद्धनामावलिः, तत् सॊहित्यादिजामोदः-साहित्यं रूढिवृत्त्या काब्यात्मकग्रन्थविशेषः तत् तस्य श्रीकृष्णस्य सम्बन्धिसाहित्यं श्रीमद्भागवतम्, आदिना श्रीगोपालचम्पू-ललितमाधव-मुक्ताचरितादय-स्तेभ्यो जात अामोद आनन्द-स्तम् । – पक्षे तत्-तस्य श्रीकृष्णस्य साहित्यं साहचर्य’, परिकरैः सह संसर्गः इति यावत् । आदिना आलिङ्गनं नमांदिकश्च । तस्माज्जात आामोदः परिमलस्तम् त्वरितं शीघ्र’ यथा-स्यात्तथा वितरेत् दद्यात्; परिशीलकेभ्य इति शेषः । अर्ह-शत्कयोरित्यनेन विधिः । शक्तिः सामर्थ्यम् । तेन नामावलिः श्रीकृष्णसाहित्यादिजीमोर्द दातुं समर्थ एवेत्यर्थः ।

यद् वा एषा श्रीकॄष्णनामावलिस्तत् साहित्यादिजामोदं हितेनाऽविद्यामोचनरूप-*

मङ्गलेन सह वर्त्तमानेति सहिता भक्तिः, तस्य श्रीकृष्णस्य ( कृष्णसम्बन्धिनी ) सहिता तत्सहिता या शुद्धा कृष्णभक्तिस्तामर्हत्ोति तत्साहित्यं श्रीमद्भागवतम् । ‘मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ’ इति प्राचीनप्रमाणाच्च । “तदर्हतीति’ नृसिह् यः । तदादि यस्य तत्साहित्यादि श्रीमद्भागवतादि-भक्तिरसशास्त्रं भक्तिरसपात्रश्च । लक्षणया तदनुशीलनं सेवनश्च । तस्माज्जातं परानन्दं शीघ्र’ वितरेत् । यद्यपि भगवन्नाममात्रस्यैव भागवतानन्दवितरणे स्वाभाविक्यसाधारणी शक्तिरस्त्येव तथापि तेषां ग्रथनं तु कण्ठधारणसौकयर्थि

मिति नायं निष्ऽफलप्रयासः ।

पक्षे कृष्णमिति सत्या सत्यभामा, भीम भीमसेन इतिवत् कृष्णं श्रीकृष्णचैतन्य- ।

देवम् । ‘सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः’ इत्यादिप्रमाणाद् देशकालौचित्यभेदेनार्थवैशिष्ट्य-स्वीकारा च स एवार्थः । कलियुगोपास्य-निर्णयप्रसंगे ‘कृष्णवर्ण’ त्विषाकृष्णं साड्रोपाजूस्त्रपार्षदम्’ इति श्रीमद्भागवतपद्यव्याख्यायां सर्वसम्वादिनी प्रारम्भे“श्रीश्रीकृष्णचैतन्यदेवनामानं श्रीभगवन्तं कलियुगेऽस्मिन् वैष्णवजनोपास्यावतारतये’ त्याद्युक्तः स्वयं ग्रन्थकक्तरप्ययमेवाभिप्रायः । तमुपासितुं संकीर्त्तानप्राधान्येनाराधयितुं, “यज्ञैः संकीर्तनप्रायैर्यजन्ति हि सुमेधस’ इत्युक्त: । अस्य श्रीकृष्णचैतन्यदेवस्य नाम्नां तत्प्रचारितानां वा नाम्नामावलिस्तत्साहित्यादिजामोदमिति पूर्ववत् । यद्वा तस्य श्रीभगवतः साहित्यं लीलादिश्रवणकीर्त्तनद्वारेण सह वर्त्तनं तत् संग इति यावत्; तदादियेषां स्मरणादीनां तानि तत्साहित्यादीनि तेभ्यो जातमामोंर्द चिरीदनर्पितोज्वलरसास्वादन – सुखविशेष शीघ्र’ वितरेतू प्रदातुं शक्नुयात्र । नाम्नः परमपुरुषार्थदत्वप्रसिद्धरिति